Sukta 8.74
अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम् । यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः ॥
अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प॑तिम् । यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्य॑म्पन्यं च कृ॒ष्टय॑: ॥
áśvam id gā́ṃ rathaprā́ṃ tvéṣam índraṃ na sátpatim | yásya śrávāṃsi tū́rvatha pányam-panyaṃ ca kṛ́ṣṭayaḥ ||
He grants the steed-force, the cow of light, the forward-driving chariot—fierce like Indra, a true lord of the path; whose glories, O Tūrvatha, the peoples celebrate as ever admirable.
अश्व॑म् । इत् । गाम् । र॒थ॒ऽप्राम् । त्वे॒षम् । इन्द्र॑म् । न । सत्ऽप॑तिम् । यस्य॑ । श्रवां॑सि । तूर्व॑थ । पन्य॑म्ऽपन्यम् । च॒ । कृ॒ष्टयः॑ ॥अश्वम् । इत् । गाम् । रथप्राम् । त्वेषम् । इन्द्रम् । न । सत्पतिम् । यस्य । श्रवांसि । तूर्वथ । पन्यम्पन्यम् । च । कृष्टयः ॥aśvam | it | gām | ratha-prām | tveṣam | indram | na | sat-patim | yasya | śravāṃsi | tūrvatha | panyam-panyam | ca | kṛṣṭayaḥ