Sukta 8.73
कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः । अन्ति षद्भूतु वामवः ॥
कुह॑ स्थ॒: कुह॑ जग्मथु॒: कुह॑ श्ये॒नेव॑ पेतथुः । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
kúha sthaḥ kúha jagmathuḥ kúha śyénāiva petathuḥ | ánti ṣád bhūtu vām ávaḥ ||
Where are you? From where have you come? Where have you flown like a falcon? Near at hand may your help be seated within us.
कुह॑ । स्थः॒ । कुह॑ । ज॒ग्म॒थुः॒ । कुह॑ । श्ये॒नाऽइ॑व । पे॒त॒थुः॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥कुह । स्थः । कुह । जग्मथुः । कुह । श्येनाइव । पेतथुः । अन्ति । सत् । भूतु । वाम् । अवः ॥kuha | sthaḥ | kuha | jagmathuḥ | kuha | śyenāiva | petathuḥ | anti | sat | bhūtu | vām | avaḥ