Sukta 8.73
उप स्तृणीतमत्रये हिमेन घर्ममश्विना । अन्ति षद्भूतु वामवः ॥
उप॑ स्तृणीत॒मत्र॑ये हि॒मेन॑ घ॒र्मम॑श्विना । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
úpa stṛṇītam átraye hiména gharmám aśvinā | ánti ṣád bhūtu vām ávaḥ ||
Spread out for Atri the warm ghr̥ma with the coolness—O Aśvins; near at hand may your help be established within us.
उप॑ । स्तृ॒णी॒त॒म् । अत्र॑ये । हि॒मेन॑ । घ॒र्मम् । अ॒श्वि॒ना॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥उप । स्तृणीतम् । अत्रये । हिमेन । घर्मम् । अश्विना । अन्ति । सत् । भूतु । वाम् । अवः ॥upa | stṛṇītam | atraye | himena | gharmam | aśvinā | anti | sat | bhūtu | vām | avaḥ