Sukta 8.73
इहा गतं वृषण्वसू शृणुतं म इमं हवम् । अन्ति षद्भूतु वामवः ॥
इ॒हा ग॑तं वृषण्वसू शृणु॒तं म॑ इ॒मं हव॑म् । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
ihā́ gátam vṛṣaṇvasū śṛṇutáṃ ma imáṃ hávam | ánti ṣádbhūtu vāmávaḥ ||
Come here, you two rich in victorious force; hear this my call: may your help be near and truly present.
इ॒ह । आ । ग॒त॒म् । वृ॒ष॒ण्ऽव॒सू॒ इति॑ वृषण्ऽवसू । शृ॒णु॒तम् । मे॒ । इ॒मम् । हव॑म् । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥इह । आ । गतम् । वृषण्वसू इति वृषण्वसू । शृणुतम् । मे । इमम् । हवम् । अन्ति । सत् । भूतु । वाम् । अवः ॥iha | ā | gatam | vṛṣaṇ-vasūitivṛṣaṇ-vasū | śṛṇutam | me | imam | havam | anti | sat | bhūtu | vām | avaḥ