Sukta 8.71
अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम् । अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥
अ॒ग्निमी॑ळि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषम् । अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥
agním īḷiṣvā́vase gā́thābhiḥ śīráśociṣam | agníṃ rāyé purumīḷha śrutáṃ naro 'gníṃ sudītáye chardhíḥ ||
Invoke Agni for help with the hymns—Agni whose flame is keen and puissant. Invoke Agni for the plenitude of being, O men, the much-praised and widely heard; invoke Agni for the fair kindling of the sheltering peace.
अ॒ग्निम् । ई॒ळि॒ष्व॒ । अव॑से । गाथा॑भिः । शी॒रऽशो॑चिषम् । अ॒ग्निम् । रा॒ये । पु॒रु॒ऽमी॒ळ्ह॒ । श्रु॒तम् । नरः॑ । अ॒ग्निम् । सु॒ऽदी॒तये॑ । छ॒र्धिः ॥अग्निम् । ईळिष्व । अवसे । गाथाभिः । शीरशोचिषम् । अग्निम् । राये । पुरुमीळ्ह । श्रुतम् । नरः । अग्निम् । सुदीतये । छर्धिः ॥agnim | īḷiṣva | avase | gāthābhiḥ | śīra-śociṣam | agnim | rāye | puru-mīḷha | śrutam | naraḥ | agnim | su-dītaye | chardhiḥ