Sukta 8.71
अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम् । अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम् ॥
अ॒ग्निरि॒षां स॒ख्ये द॑दातु न॒ ईशे॒ यो वार्या॑णाम् । अ॒ग्निं तो॒के तन॑ये॒ शश्व॑दीमहे॒ वसुं॒ सन्तं॑ तनू॒पाम् ॥
agnír iṣā́ṃ sakhyé dadātu na ī́śe yó vā́ryāṇām | agníṃ tókē tanáye śáśvad īmahe vásuṃ sántam tanūpā́m ||
May Agni in the comradeship of the impulsions grant us the true increase—he who is master of the desirable riches. Agni we seek always in our home and in our becoming, the abiding Treasure who guards the being from within.
अ॒ग्निः । इ॒षाम् । स॒ख्ये । द॒दा॒तु॒ । नः॒ । ईशे॑ । यः । वार्या॑णाम् । अ॒ग्निम् । तो॒के । तन॑ये । शश्व॑त् । ई॒म॒हे॒ । वसु॑म् । सन्त॑म् । त॒नू॒ऽपाम् ॥अग्निः । इषाम् । सख्ये । ददातु । नः । ईशे । यः । वार्याणाम् । अग्निम् । तोके । तनये । शश्वत् । ईमहे । वसुम् । सन्तम् । तनूपाम् ॥agniḥ | iṣām | sakhye | dadātu | naḥ | īśe | yaḥ | vāryāṇām | agnim | toke | tanaye | śaśvat | īmahe | vasum | santam | tanū-pām