Sukta 8.71
अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे । विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुॠषूणाम् ॥
अ॒ग्निं द्वेषो॒ योत॒वै नो॑ गृणीमस्य॒ग्निं शं योश्च॒ दात॑वे । विश्वा॑सु वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु॑ॠषू॒णाम् ॥
agníṃ dveṣó yotavái no gṛṇīmasy agníṃ śáṃ yóś ca dā́tave | víśvāsu vikṣv avitā́ iva havyó bhuvad vástu ṛṣūṇā́m ||
Agni we acclaim to drive away our hostile forces; Agni to give peace and well-being. In all the clans may he be like a protector, worthy of the offering, becoming the abiding home of the seers’ swift powers.
अ॒ग्निम् । द्वेषः॑ । योत॒वै । नः॒ । गृ॒णी॒म॒सि॒ । अ॒ग्निम् । शम् । योः । च॒ । दात॑वे । विश्वा॑सु । वि॒क्षु । अ॒वि॒ताऽइ॑व । हव्यः॑ । भुव॑त् । वस्तुः॑ । ऋ॒षू॒णाम् ॥अग्निम् । द्वेषः । योतवै । नः । गृणीमसि । अग्निम् । शम् । योः । च । दातवे । विश्वासु । विक्षु । अविताइव । हव्यः । भुवत् । वस्तुः । ऋषूणाम् ॥agnim | dveṣaḥ | yotavai | naḥ | gṛṇīmasi | agnim | śam | yoḥ | ca | dātave | viśvāsu | vikṣu | avitāiva | havyaḥ | bhuvat | vastuḥ | ṛṣūṇām