Sukta 8.71
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् । द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥
अ॒ग्निं सू॒नुं सह॑सो जा॒तवे॑दसं दा॒नाय॒ वार्या॑णाम् । द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता॑ म॒न्द्रत॑मो वि॒शि ॥
agním sūnúṃ sáhaso jātávedasaṃ dānā́ya vā́ryāṇām | dvitā́ yó bhūd amṛ́to mártyeṣv ā́ hótā mandrátamo víśi ||
Agni—son of Force, Jātavedas—(we call) for the giving of the choicest boons: he who, though immortal, has become present among mortals as the priest of offering, the most gladdening in the people.
अ॒ग्निम् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । दा॒नाय॑ । वार्या॑णाम् । द्वि॒ता । यः । भूत् । अ॒मृतः॑ । मर्त्ये॑षु । आ । होता॑ । म॒न्द्रऽत॑मः । वि॒शि ॥अग्निम् । सूनुम् । सहसः । जातवेदसम् । दानाय । वार्याणाम् । द्विता । यः । भूत् । अमृतः । मर्त्येषु । आ । होता । मन्द्रतमः । विशि ॥agnim | sūnum | sahasaḥ | jāta-vedasam | dānāya | vāryāṇām | dvitā | yaḥ | bhūt | amṛtaḥ | martyeṣu | ā | hotā | mandra-tamaḥ | viśi