Sukta 8.71
अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् । अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥
अच्छा॑ नः शी॒रशो॑चिषं॒ गिरो॑ यन्तु दर्श॒तम् । अच्छा॑ य॒ज्ञासो॒ नम॑सा पुरू॒वसुं॑ पुरुप्रश॒स्तमू॒तये॑ ॥
ácchā naḥ śīráśociṣaṃ gíro yantu darśatám | ácchā yajñā́so námasā purūvásuṃ purupraśastám ūtáye ||
Let our words move toward the visible One of strong and brilliant flame; let our sacrifices, with reverence, move toward the richly-possessing Power, the much-praised, for our protection.
अच्छ॑ । नः॒ । शी॒रऽशो॑चिषम् । गिरः॑ । य॒न्तु॒ । द॒र्श॒तम् । अच्छ॑ । य॒ज्ञासः॑ । नम॑सा । पु॒रु॒ऽवसु॑म् । पु॒रु॒ऽप्र॒श॒स्तम् । ऊ॒तये॑ ॥अच्छ । नः । शीरशोचिषम् । गिरः । यन्तु । दर्शतम् । अच्छ । यज्ञासः । नमसा । पुरुवसुम् । पुरुप्रशस्तम् । ऊतये ॥accha | naḥ | śīra-śociṣam | giraḥ | yantu | darśatam | accha | yajñāsaḥ | namasā | puru-vasum | puru-praśastam | ūtaye