Sukta 8.70
त्वं न इन्द्र ऋतयुस्त्वानिदो नि तृम्पसि । मध्ये वसिष्व तुविनृम्णोर्वोर्नि दासं शिश्नथो हथैः ॥
त्वं न॑ इन्द्र ऋत॒युस्त्वा॒निदो॒ नि तृ॑म्पसि । मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथै॑: ॥
tváṃ na indra ṛtáyus tvānído ní tṛ́mpasi | mádhye vasiṣva tuvinṛ́mṇor vór ní dāsáṃ śiśnatho háthaiḥ ||
You, O Indra, mover in the right law, silence the deniers of your power. Abide in the middle, O wide-might; between the two expanses you crush down the servant of darkness by your blows.
त्वम् । नः॒ । इ॒न्द्र॒ । ऋ॒त॒ऽयुः । त्वा॒ऽनिदः॑ । नि । तृ॒म्प॒सि॒ । मध्ये॑ । व॒सि॒ष्व॒ । तु॒वि॒ऽनृ॒म्ण॒ । ऊ॒र्वोः । नि । दा॒सम् । शि॒श्न॒थः॒ । हथैः॑ ॥त्वम् । नः । इन्द्र । ऋतयुः । त्वानिदः । नि । तृम्पसि । मध्ये । वसिष्व । तुविनृम्ण । ऊर्वोः । नि । दासम् । शिश्नथः । हथैः ॥tvam | naḥ | indra | ṛta-yuḥ | tvānidaḥ | ni | tṛmpasi | madhye | vasiṣva | tuvi-nṛmṇa | ūrvoḥ | ni | dāsam | śiśnathaḥ | hathaiḥ