Sukta 8.7
सृजन्ति रश्मिमोजसा पन्थां सूर्याय यातवे । ते भानुभिर्वि तस्थिरे ॥
सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या॑य॒ यात॑वे । ते भा॒नुभि॒र्वि त॑स्थिरे ॥
sṛjánti raśmím ójasā panthā́ṃ sū́ryāya yā́tave | té bhānúbhir ví tasthire ||
By force they release the ray and make a path for the Sun to go; by their beams they stand out wide, establishing the luminous way.
सृ॒जन्ति॑ । र॒श्मिम् । ओज॑सा । पन्था॑म् । सूर्या॑य । यात॑वे । ते । भा॒नुऽभिः॑ । वि । त॒स्थि॒रे॒ ॥सृजन्ति । रश्मिम् । ओजसा । पन्थाम् । सूर्याय । यातवे । ते । भानुभिः । वि । तस्थिरे ॥sṛjanti | raśmim | ojasā | panthām | sūryāya | yātave | te | bhānu-bhiḥ | vi | tasthire