Sukta 8.7
युष्माँ उ नक्तमूतये युष्मान्दिवा हवामहे । युष्मान्प्रयत्यध्वरे ॥
यु॒ष्माँ उ॒ नक्त॑मू॒तये॑ यु॒ष्मान्दिवा॑ हवामहे । यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे ॥
yuṣmā́m̐ u naktám ūtáye yuṣmā́n divā́ havāmahe | yuṣmā́n pra-yáty adhvaré ||
You indeed we call in the night for protection; you we call in the day; you we call in the advancing movement of the sacrifice.
यु॒ष्मान् । ऊँ॒ इति॑ । नक्त॑म् । ऊ॒तये॑ । यु॒ष्मान् । दिवा॑ । ह॒वा॒म॒हे॒ । यु॒ष्मान् । प्र॒ऽय॒ति । अ॒ध्व॒रे ॥युष्मान् । ऊँ इति । नक्तम् । ऊतये । युष्मान् । दिवा । हवामहे । युष्मान् । प्रयति । अध्वरे ॥yuṣmān | oṃ iti | naktam | ūtaye | yuṣmān | divā | havāmahe | yuṣmān | pra-yati | adhvare