Sukta 8.7
सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः । स्तुषे हिरण्यवाशीभिः ॥
स॒हो षु णो॒ वज्र॑हस्तै॒: कण्वा॑सो अ॒ग्निं म॒रुद्भि॑: । स्तु॒षे हिर॑ण्यवाशीभिः ॥
sahó ṣú no vájra-hastaiḥ káṇvāsó agním marúdbhiḥ | stúṣe híraṇya-vāśībhiḥ ||
With the strong ones, the thunderbolt-handed, we the Kāṇvas praise Agni together with the Maruts, with voices bright as gold.
स॒हो इति॑ । सु । नः॒ । वज्र॑ऽहस्तैः । कण्वा॑सः । अ॒ग्निम् । म॒रुत्ऽभिः॑ । स्तु॒षे । हिर॑ण्यऽवाशीभिः ॥सहो इति । सु । नः । वज्रहस्तैः । कण्वासः । अग्निम् । मरुत्भिः । स्तुषे । हिरण्यवाशीभिः ॥saho iti | su | naḥ | vajra-hastaiḥ | kaṇvāsaḥ | agnim | marut-bhiḥ | stuṣe | hiraṇya-vāśībhiḥ