Sukta 8.7
विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन्हिरण्ययीः । शुभ्रा व्यञ्जत श्रिये ॥
वि॒द्युद्ध॑स्ता अ॒भिद्य॑व॒: शिप्रा॑: शी॒र्षन्हि॑र॒ण्ययी॑: । शु॒भ्रा व्य॑ञ्जत श्रि॒ये ॥
vidyúdd-hastā abhi-dyávaḥ śíprāḥ śīrṣán-hiraṇyáyīḥ | śubhrā ví añjata śríye ||
With lightning in their hands, shining heavenward, with radiant cheek-guards and golden head-ornaments, the bright ones anointed themselves outwardly for splendor.
वि॒द्युत्ऽह॑स्ताः । अ॒भिऽद्य॑वः । शिप्राः॑ । शी॒र्षन् । हि॒र॒ण्ययीः॑ । शु॒भ्राः । वि । अ॒ञ्ज॒त॒ । श्रि॒ये ॥विद्युत्हस्ताः । अभिद्यवः । शिप्राः । शीर्षन् । हिरण्ययीः । शुभ्राः । वि । अञ्जत । श्रिये ॥vidyut-hastāḥ | abhi-dyavaḥ | śiprāḥ | śīrṣan | hiraṇyayīḥ | śubhrāḥ | vi | añjata | śriye