Sukta 8.7
ये द्रप्सा इव रोदसी धमन्त्यनु वृष्टिभिः । उत्सं दुहन्तो अक्षितम् ॥
ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धम॒न्त्यनु॑ वृ॒ष्टिभि॑: । उत्सं॑ दु॒हन्तो॒ अक्षि॑तम् ॥
yé drapsā́ iva ródasī́ íti dhámanty ánu vṛṣṭíbhiḥ | útsaṃ dúhanto ákṣitam ||
They who, like shining drops, breathe and widen the two worlds with their rainings, milking out the inexhaustible spring—these are the powers that make the being fertile with streams of delight and knowledge.
ये । द्र॒प्साःऽइ॑व । रोद॑सी॒ इति॑ । धम॑न्ति । अनु॑ । वृ॒ष्टिऽभिः॑ । उत्स॑म् । दु॒हन्तः॑ । अक्षि॑तम् ॥ये । द्रप्साःइव । रोदसी इति । धमन्ति । अनु । वृष्टिभिः । उत्सम् । दुहन्तः । अक्षितम् ॥ye | drapsāḥ-iva | rodasī iti | dhamanti | anu | vṛṣṭi-bhiḥ | utsam | duhantaḥ | akṣitam