Sukta 8.7
यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे । उत प्रचेतसो मदे ॥
यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा॑ ऋभुक्षणो॒ दमे॑ । उ॒त प्रचे॑तसो॒ मदे॑ ॥
yūyáṃ hí ṣṭhā sudānavo rudrā ṛbhukṣaṇo dámē | utá prácetaso mádē ||
For you are indeed the good givers—Rudras, strong shapers—in the home; and you are the wide-aware powers in the ecstasy (of the inspired delight).
यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । रुद्राः॑ । ऋ॒भु॒क्ष॒णः॒ । दमे॑ । उ॒त । प्रऽचे॑तसः । मदे॑ ॥यूयम् । हि । स्थ । सुदानवः । रुद्राः । ऋभुक्षणः । दमे । उत । प्रचेतसः । मदे ॥yūyam | hi | stha | su-dānavaḥ | rudrāḥ | ṛbhukṣaṇaḥ | dame | uta | pra-cetasaḥ | made