Sukta 8.7
त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु । उत्सं कवन्धमुद्रिणम् ॥
त्रीणि॒ सरां॑सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ । उत्सं॒ कव॑न्धमु॒द्रिण॑म् ॥
trī́ṇi sarā́ṃsi pṛ́śnayo duduhre vájriṇe mádhu | útsaṃ kavándham udríṇam ||
The dappled ones have milked out three streams of sweetness for the wielder of the thunder-force; a spring, well-contained, rising upward—an inexhaustible source within.
त्रीणि॑ । सरां॑सि । पृश्न॑यः । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ । उत्स॑म् । कव॑न्धम् । उ॒द्रिण॑म् ॥त्रीणि । सरांसि । पृश्नयः । दुदुह्रे । वज्रिणे । मधु । उत्सम् । कवन्धम् । उद्रिणम् ॥trīṇi | sarāṃsi | pṛśnayaḥ | duduhre | vajriṇe | madhu | utsam | kavandham | udriṇam