Sukta 8.69
उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि । मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥
उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि । मध्व॑: पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्यु॑: प॒दे ॥
úd yád bradhnásya viṣṭápaṃ gṛhám índraś ca gánvahi | mádhvaḥ pītvā́ sacevahi tríḥ saptá sákhyuḥ padé ||
When thou ascendest to the wide realm, the home of the Radiant One, go there—O Indra—and having drunk the honeyed delight, move in companionship with us in the thrice-seven steps of the friendship.
उत् । यत् । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् । गृ॒हम् । इन्द्रः॑ । च॒ । गन्व॑हि । मध्वः॑ । पी॒त्वा । स॒चे॒व॒हि॒ । त्रिः । स॒प्त । सख्युः॑ । प॒दे ॥उत् । यत् । ब्रध्नस्य । विष्टपम् । गृहम् । इन्द्रः । च । गन्वहि । मध्वः । पीत्वा । सचेवहि । त्रिः । सप्त । सख्युः । पदे ॥ut | yat | bradhnasya | viṣṭapam | gṛham | indraḥ | ca | ganvahi | madhvaḥ | pītvā | sacevahi | triḥ | sapta | sakhyuḥ | pade