Sukta 8.69
ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः ॥
ता अ॑स्य॒ सूद॑दोहस॒: सोमं॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥
tā́ asya sū́da-dohasaḥ sómaṃ śrīṇanti pṛ́śnayaḥ | jánman devā́nāṃ víśas tríṣv ā́ rócane diváḥ ||
These speckled milkers, abundant in their yield, blend and prepare Soma; they are the peoples of the gods at the birth—in the three luminous worlds of heaven’s shining, they establish the radiant offering.
ताः । अ॒स्य॒ । सूद॑ऽदोहसः । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑यः । जन्म॑न् । दे॒वाना॑म् । विशः॑ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ॥ताः । अस्य । सूददोहसः । सोमम् । श्रीणन्ति । पृश्नयः । जन्मन् । देवानाम् । विशः । त्रिषु । आ । रोचने । दिवः ॥tāḥ | asya | sūda-dohasaḥ | somam | śrīṇanti | pṛśnayaḥ | janman | devānām | v iśaḥ | triṣu | ā | rocane | divaḥ