Sukta 8.69
नदं व ओदतीनां नदं योयुवतीनाम् । पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥
न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम् । पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि ॥
nadáṃ va odátīnām nadáṃ yóyuvatīnām | pátiṃ vo ághnyānāṃ dhenū́nām iṣudhyasi ||
You become the resonant flow for your swelling energies, the sounding stream for the ever-yoking powers; you are the lord of the unassailable cows—of the milking streams—so that the nourishing impulsion may be secured within us.
न॒दम् । वः॒ । ओद॑तीनाम् । न॒दम् । योयु॑वतीनाम् । पति॑म् । वः॒ । अघ्न्या॑नाम् । धे॒नू॒नाम् । इ॒षु॒ध्य॒सि॒ ॥नदम् । वः । ओदतीनाम् । नदम् । योयुवतीनाम् । पतिम् । वः । अघ्न्यानाम् । धेनूनाम् । इषुध्यसि ॥nadam | vaḥ | odatīnām | nadam | yoyuvatīnām | patim | vaḥ | aghnyānām | dhenūnām | iṣudhyasi