Sukta 8.69
तं घेमित्था नमस्विन उप स्वराजमासते । अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने ॥
तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते । अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥
táṁ ghém itthā́ namasvína úpa svárājam āsate | árthaṁ cid asya sudhítaṁ yád étave ā́vartayanti dā́vane ||
To him, indeed—thus—those who bow in adoration draw near and sit with the self-ruling Lord. Even the well-set aim of his becomes clear, when they turn him toward the journey, toward the giving.
तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ । अर्थ॑म् । चि॒त् । अ॒स्य॒ । सुऽधि॑तम् । यत् । एत॑वे । आ॒ऽव॒र्तय॑न्ति । दा॒वने॑ ॥तम् । घ । ईम् । इत्था । नमस्विनः । उप । स्वराजम् । आसते । अर्थम् । चित् । अस्य । सुधितम् । यत् । एतवे । आवर्तयन्ति । दावने ॥tam | gha | īm | itthā | namasvinaḥ | upa | sva-rājam | āsate | artham | cit | asya | su-dhitam | yat | etave | āvartayanti | dāvane