Sukta 8.69
अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम् । स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥
अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ॑म् । स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म् ॥
arbhakó na kumārakó’dhí tiṣṭhann ávaṁ rátham | sá pakṣan-mahiṣáṁ mṛgáṁ pitre mātre vibhú-krátum ||
Like a little child, like a young boy, he mounts the ever-new chariot of progress. He ripens and prepares the mighty force of the wild energy, offering it to the Father and the Mother—the One of wide, all-effective will.
अ॒र्भ॒कः । न । कु॒मार॒कः । अधि॑ । ति॒ष्ठ॒त् । नव॑म् । रथ॑म् । सः । प॒क्ष॒त् । म॒हि॒षम् । मृ॒गम् । पि॒त्रे । मा॒त्रे । वि॒भु॒ऽक्रतु॑म् ॥अर्भकः । न । कुमारकः । अधि । तिष्ठत् । नवम् । रथम् । सः । पक्षत् । महिषम् । मृगम् । पित्रे । मात्रे । विभुक्रतुम् ॥arbhakaḥ | na | kumārakaḥ | adhi | tiṣṭhat | navam | ratham | saḥ | pakṣat | mahiṣam | mṛgam | pitre | mātre | vibhu-kratum