Sukta 8.69
अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः । भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥
अतीदु॑ श॒क्र ओ॑हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विष॑: । भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ॥
átīdu śakrá óhata índro víśvā áti dvíṣaḥ | bhínat kanī́na odanáṃ pacyámānaṃ paró girā́ ||
Mightily the Strong One has struck forth; Indra has passed beyond all hatreds. He splits even the cooking pot of the ‘youth’ that is being prepared—by the farther-reaching Word: so the hostile formations are broken by a higher utterance.
अति॑ । इत् । ऊँ॒ इति॑ । श॒क्रः । अ॒ह॒ते॒ । इन्द्रः॑ । विश्वाः॑ । अति॑ । द्विषः॑ । भि॒नत् । क॒नीनः॑ । ओ॒द॒नम् । प॒च्यमा॑नम् । प॒रः । गि॒रा ॥अति । इत् । ऊँ इति । शक्रः । अहते । इन्द्रः । विश्वाः । अति । द्विषः । भिनत् । कनीनः । ओदनम् । पच्यमानम् । परः । गिरा ॥ati | it | oṃ iti | śakraḥ | ahate | indraḥ | viśvāḥ | ati | dviṣaḥ | bhinat | kanīnaḥ | odanam | pacyamānam | paraḥ | girā