Sukta 8.69
यो व्यतीँरफाणयत्सुयुक्ताँ उप दाशुषे । तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥
यो व्यतीँ॒रफा॑णय॒त्सुयु॑क्ताँ॒ उप॑ दा॒शुषे॑ । त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत ॥
yó vyatī́ṃr áphāṇayat súyuktāṃ úpa dāśúṣe | takvó netā́ tád íd vápur upamā́ yó amúcyata ||
He who drove apart the opposed forces and brought the well-yoked powers near to the giver—he, the swift leader: that very form of his is the measure, he who is released into free action.
यः । व्यती॑न् । अफा॑णयत् । सुऽयु॑क्तान् । उप॑ । दा॒शुषे॑ । त॒क्वः । ने॒ता । तत् । इत् । वपुः॑ । उ॒प॒ऽमा । यः । अमु॑च्यत ॥यः । व्यतीन् । अफाणयत् । सुयुक्तान् । उप । दाशुषे । तक्वः । नेता । तत् । इत् । वपुः । उपमा । यः । अमुच्यत ॥yaḥ | vyatīn | aphāṇayat | su-yuktān | upa | dāśuṣe | takvaḥ | netā | tat | it | vapuḥ | upa-mā | yaḥ | amucyata