Sukta 8.69
अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत । वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥
अपा॒दिन्द्रो॒ अपा॑द॒ग्निर्विश्वे॑ दे॒वा अ॑मत्सत । वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो॑ अ॒भ्य॑नूषत व॒त्सं सं॒शिश्व॑रीरिव ॥
apā́d índro apā́d agnír víśve devā́ amatsata | váruṇa íd ihá kṣayat tám ā́po abhyànūṣata vatsáṃ saṃśíśvarīr iva ||
Indra drank; Agni drank; all the gods grew glad. Varuṇa too dwelt here; and the Waters moved toward him with their murmuring, as mothers lowing around a calf—nourishing the indwelling order with their flowing consent.
अपा॑त् । इन्द्रः॑ । अपा॑त् । अ॒ग्निः । विश्वे॑ । दे॒वाः । अ॒म॒त्स॒त॒ । वरु॑णः । इत् । इ॒ह । क्ष॒य॒त् । तम् । आपः॑ । अ॒भि । अ॒नू॒ष॒त॒ । व॒त्सम् । सं॒शिश्व॑रीःऽइव ॥अपात् । इन्द्रः । अपात् । अग्निः । विश्वे । देवाः । अमत्सत । वरुणः । इत् । इह । क्षयत् । तम् । आपः । अभि । अनूषत । वत्सम् । संशिश्वरीःइव ॥apāt | indraḥ | apāt | agniḥ | viśve | devāḥ | amatsata | varuṇaḥ | it | iha | kṣayat | tam | āpaḥ | abhi | anūṣata | vatsam | saṃśiśvarīḥ-iva