Sukta 8.67
यद्वः श्रान्ताय सुन्वते वरूथमस्ति यच्छर्दिः । तेना नो अधि वोचत ॥
यद्व॑: श्रा॒न्ताय॑ सुन्व॒ते वरू॑थ॒मस्ति॒ यच्छ॒र्दिः । तेना॑ नो॒ अधि॑ वोचत ॥
yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ | tenā no adhi vocata ||
Whatever your shelter is for the weary presser of Soma, whatever your protecting cover—by that, speak over us and establish us in safety.
यत् । वः॒ । श्रा॒न्ताय॑ । सु॒न्व॒ते । वरू॑थम् । अस्ति॑ । यत् । छ॒र्दिः । तेन॑ । नः॒ । अधि॑ । वो॒च॒त॒ ॥यत् । वः । श्रान्ताय । सुन्वते । वरूथम् । अस्ति । यत् । छर्दिः । तेन । नः । अधि । वोचत ॥yat | vaḥ | śrāntāya | sunvate | varūtham | asti | yat | chardiḥ | tena | naḥ | adhi | vocata