Sukta 8.67
नास्माकमस्ति तत्तर आदित्यासो अतिष्कदे । यूयमस्मभ्यं मृळत ॥
नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे॑ । यू॒यम॒स्मभ्यं॑ मृळत ॥
nā́smā́kam asti táttara ādityāso atiṣkáde | yūyám asmábhyaṁ mṛḷata ||
There is none beyond that for us, O Ādityas, when danger overleaps; you—do you show mercy to us and set us in safety.
न । अ॒स्माक॑म् । अ॒स्ति॒ । तत् । तरः॑ । आदि॑त्यासः । अ॒ति॒ऽस्कदे॑ । यू॒यम् । अ॒स्मभ्य॑म् । मृ॒ळ॒त॒ ॥न । अस्माकम् । अस्ति । तत् । तरः । आदित्यासः । अतिस्कदे । यूयम् । अस्मभ्यम् । मृळत ॥na | asmākam | asti | tat | taraḥ | ādityāsaḥ | ati-skade | yūyam | asmabhyam | mṛḷata