Sukta 8.66
यद्वावन्थ पुरुष्टुत पुरा चिच्छूर नृणाम् । वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः ॥
यद्वा॒वन्थ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णाम् । व॒यं तत्त॑ इन्द्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वच॑: ॥
yád vāvántha puruṣṭuta purā́ cíc chūra nṛṇā́m | vayáṃ tát ta indra sáṃ bharāmasi yajñám uktháṃ turáṃ vácaḥ ||
Whatever you have won before, O much-praised Hero among men—this we now assemble for you, O Indra: the sacrifice, the hymn, the swift and driving word that carries the force forward.
यत् । व॒वन्थ॑ । पु॒रु॒ऽस्तु॒त॒ । पु॒रा । चि॒त् । शू॒र॒ । नृ॒णाम् । व॒यम् । तत् । ते॒ । इ॒न्द्र॒ । सम् । भ॒रा॒म॒सि॒ । य॒ज्ञम् । उ॒क्थम् । तु॒रम् । वचः॑ ॥यत् । ववन्थ । पुरुस्तुत । पुरा । चित् । शूर । नृणाम् । वयम् । तत् । ते । इन्द्र । सम् । भरामसि । यज्ञम् । उक्थम् । तुरम् । वचः ॥yat | vavantha | puru-stuta | purā | cit | śūra | nṛṇām | vayam | tat | te | indra | sam | bharāmasi | yajñam | uktham | turam | vacaḥ