Sukta 8.66
सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः । त्वमिद्धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥
सचा॒ सोमे॑षु पुरुहूत वज्रिवो॒ मदा॑य द्युक्ष सोमपाः । त्वमिद्धि ब्र॑ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठ॑: सुन्व॒ते भुव॑: ॥
sacā́ sómeṣu puruhūta vajrivo mádāya dyukṣa somapāḥ | tvám íd dhi brahmakṛté kā́myaṃ vásu déṣṭhaḥ sunváte bhúvaḥ ||
Move with us in the Soma-pressings, O much-invoked wielder of the thunderbolt, shining Soma-drinker, for the ecstasy; for you indeed become the bestower of the desired wealth to the maker of the sacred word, to the presser.
सचा॑ । सोमे॑षु । पु॒रु॒ऽहू॒त॒ । व॒ज्रि॒ऽवः॒ । मदा॑य । द्यु॒क्ष॒ । सो॒म॒ऽपाः॒ । त्वम् । इत् । हि । ब्र॒ह्म॒ऽकृते॑ । काम्य॑म् । वसु॑ । देष्ठः॑ । सु॒न्व॒ते । भुवः॑ ॥सचा । सोमेषु । पुरुहूत । वज्रिवः । मदाय । द्युक्ष । सोमपाः । त्वम् । इत् । हि । ब्रह्मकृते । काम्यम् । वसु । देष्ठः । सुन्वते । भुवः ॥sacā | someṣu | puru-hūta | vajri-vaḥ | madāya | dyukṣa | soma-pāḥ | tvam | it | hi | brahma-kṛte | kāmyam | vasu | deṣṭhaḥ | sunvate | bhuvaḥ