Sukta 8.66
निखातं चिद्यः पुरुसम्भृतं वसूदिद्वपति दाशुषे । वज्री सुशिप्रो हर्यश्व इत्करदिन्द्रः क्रत्वा यथा वशत् ॥
निखा॑तं चि॒द्यः पु॑रुसम्भृ॒तं वसूदिद्वप॑ति दा॒शुषे॑ । व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिन्द्र॒: क्रत्वा॒ यथा॒ वश॑त् ॥
nikhā́taṃ cid yáḥ purusaṃbhṛtáṃ vasū́did vápati dāśúṣe | vajrī́ suśiprò háryaśva ít karad índraḥ krátvā yáthā váśat ||
Even what is buried and heaped up in many layers of substance, he brings out and bestows on the giver; Indra, thunder-armed, strong in utterance, with tawny steeds, accomplishes it by will and insight as he chooses.
निखा॑तम् । चि॒त् । यः । पु॒रु॒ऽस॒म्भृ॒तम् । वसु॑ । उत् । इत् । वप॑ति । दा॒शुषे॑ । व॒ज्री । सु॒ऽशि॒प्रः । हरि॑ऽअश्वः । इत् । क॒र॒त् । इन्द्रः॑ । क्रत्वा॑ । यथा॑ । वश॑त् ॥निखातम् । चित् । यः । पुरुसम्भृतम् । वसु । उत् । इत् । वपति । दाशुषे । वज्री । सुशिप्रः । हरिअश्वः । इत् । करत् । इन्द्रः । क्रत्वा । यथा । वशत् ॥nikhātam | cit | yaḥ | puru-sambhṛtam | vasu | ut | it | vapati | dāśuṣe | vajrī | su-śi praḥ | hari-aśvaḥ | it | karat | indraḥ | kratvā | yathā | vaśat