Sukta 8.66
यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः । स ऊर्वस्य रेजयत्यपावृतिमिन्द्रो गव्यस्य वृत्रहा ॥
यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो॑ हिर॒ण्यय॑: । स ऊ॒र्वस्य॑ रेजय॒त्यपा॑वृति॒मिन्द्रो॒ गव्य॑स्य वृत्र॒हा ॥
yáḥ śakró mṛkṣó aśvyó yó vā kī́jo hiraṇyáyaḥ | sá ū́rvasya rejayaty ápāvṛtim índro gávyasya vṛtrahā́ ||
He who is the strong one, the impetuous, the horse-born force, or the golden-shining energy—Indra the slayer of the Coverer makes tremble the enclosure’s opening; he turns the obstruction away so the rays (cows) may be won.
यः । श॒क्रः । मृ॒क्षः । अश्व्यः॑ । यः । वा॒ । कीजः॑ । हि॒र॒ण्ययः॑ । सः । ऊ॒र्वस्य॑ । रे॒ज॒य॒ति॒ । अप॑ऽवृतिम् । इन्द्रः॑ । गव्य॑स्य । वृ॒त्र॒ऽहा ॥यः । शक्रः । मृक्षः । अश्व्यः । यः । वा । कीजः । हिरण्ययः । सः । ऊर्वस्य । रेजयति । अपवृतिम् । इन्द्रः । गव्यस्य । वृत्रहा ॥yaḥ | śakraḥ | mṛkṣaḥ | aśvyaḥ | yaḥ | vā | kījaḥ | hiraṇyayaḥ | saḥ | ūrvasya | rejayati | apa-vṛtim | indraḥ | gavyasya | vṛtra-hā