Sukta 8.66
न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रमन्धसः । य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥
न यं दु॒ध्रा वर॑न्ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमन्ध॑सः । य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्य॑म् ॥
ná yaṃ dudhrā́ várante ná sthirā́ muró máde suśiprám ándhasaḥ | yá ā́dṛtyā śaśamānā́ya sunváte dā́tā jaritré ukthyám ||
Whom no resisting powers can hold back, nor the fixed obstructions, when he is in the ecstasy of the pressed delight—he who, taking heed, becomes the giver of the word’s might to the persevering presser and the praising soul.
न । यम् । दु॒ध्राः । वर॑न्ते । न । स्थि॒राः । मुरः॑ । मदे॑ । सु॒ऽशि॒प्रम् । अन्ध॑सः । यः । आ॒ऽदृत्य॑ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । दाता॑ । ज॒रि॒त्रे । उ॒क्थ्य॑म् ॥न । यम् । दुध्राः । वरन्ते । न । स्थिराः । मुरः । मदे । सुशिप्रम् । अन्धसः । यः । आदृत्य । शशमानाय । सुन्वते । दाता । जरित्रे । उक्थ्यम् ॥na | yam | dudhrāḥ | varante | na | sthirāḥ | muraḥ | made | su-śipram | andhasaḥ | yaḥ | ādṛtya | śaśamānāya | sunvate | dātā | jaritre | ukthyam