Sukta 8.66
कदू महीरधृष्टा अस्य तविषीः कदु वृत्रघ्नो अस्तृतम् । इन्द्रो विश्वान्बेकनाटाँ अहर्दृश उत क्रत्वा पणीँरभि ॥
कदू॑ म॒हीरधृ॑ष्टा अस्य॒ तवि॑षी॒: कदु॑ वृत्र॒घ्नो अस्तृ॑तम् । इन्द्रो॒ विश्वा॑न्बेक॒नाटाँ॑ अह॒र्दृश॑ उ॒त क्रत्वा॑ प॒णीँर॒भि ॥
kadū́ mahī́r adhṛ́ṣṭā asya tavíṣī́ḥ kadú vṛtra-ghnó astṛ́tam | índro víśvānbeka-nā́ṭāṃ ahár-dṛśa utá krátvā paṇī́ṃr abhí ||
When indeed did his vast, irresistible powers become fully stretched out? When did the slayer of Vṛtra extend himself into the plenitude of action? Indra, seeing with the vision of the Day, by the force of conscious will confronts and presses upon all the Paṇis (the hoarders), to recover the hidden riches of Light.
कत् । ऊँ॒ इति॑ । म॒हीः । अधृ॑ष्टाः । अ॒स्य॒ । तवि॑षीः । कत् । ऊँ॒ इति॑ । वृ॒त्र॒ऽघ्नः । अस्तृ॑तम् । इन्द्रः॑ । विश्वा॑न् । बे॒क॒ऽनाटा॑न् । अ॒हः॒ऽदृषः॑ । उ॒त । क्रत्वा॑ । प॒णीन् । अ॒भि ॥कत् । ऊँ इति । महीः । अधृष्टाः । अस्य । तविषीः । कत् । ऊँ इति । वृत्रघ्नः । अस्तृतम् । इन्द्रः । विश्वान् । बेकनाटान् । अहःदृषः । उत । क्रत्वा । पणीन् । अभि ॥kat | oṃ | iti | mahīḥ | adhṛṣṭāḥ | asya | taviṣīḥ | kat | oṃ iti | vṛtra-ghnaḥ | astṛtam | indraḥ | viśvān | beka-nāṭān | ahaḥ-dṛṣaḥ | uta | kratvā | paṇīn | abhi