Sukta 8.65
नपातो दुर्गहस्य मे सहस्रेण सुराधसः । श्रवो देवेष्वक्रत ॥
नपा॑तो दु॒र्गह॑स्य मे स॒हस्रे॑ण सु॒राध॑सः । श्रवो॑ दे॒वेष्व॑क्रत ॥
napā́to durgáhasya me sahásreṇa surā́dhasaḥ | śrávo devéṣv akrata ||
O mighty descendants of the hard-to-overcome (Power), by your thousandfold good giving you have fashioned for me a luminous fame among the gods—an inner recognition in the higher worlds.
नपा॑तः । दुः॒ऽगह॑स्य । मे॒ । स॒हस्रे॑ण । सु॒ऽराध॑सः । श्रवः॑ । दे॒वेषु॑ । अ॒क्र॒त॒ ॥नपातः । दुःगहस्य । मे । सहस्रेण । सुराधसः । श्रवः । देवेषु । अक्रत ॥napātaḥ | duḥ-gahasya | me | sahasreṇa | su-rādhasaḥ | śravaḥ | deveṣu | akrata