Sukta 8.64
त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम् । वि स्तोतृभ्यो रुरोजिथ ॥
त्यं चि॒त्पर्व॑तं गि॒रिं श॒तव॑न्तं सह॒स्रिण॑म् । वि स्तो॒तृभ्यो॑ रुरोजिथ ॥
tyáṁ cit párvataṁ giríṁ śatá-vantaṁ sahasríṇam | ví stotṛ́bhyó rurojitha ||
Even that mountain, that towering height with its hundreds and thousands, you have broken open wide for the seers who praise—so the hidden fullness may be released into the conscious being.
त्यम् । चि॒त् । पर्व॑तम् । गि॒रिम् । श॒तऽव॑न्तम् । स॒ह॒स्रिण॑म् । वि । स्तो॒तृऽभ्यः॑ । रु॒रो॒जि॒थ॒ ॥त्यम् । चित् । पर्वतम् । गिरिम् । शतवन्तम् । सहस्रिणम् । वि । स्तोतृभ्यः । रुरोजिथ ॥tyam | cit | parvatam | girim | śata-vantam | sahasriṇam | vi | stotṛ-bhyaḥ | rurojitha