Sukta 8.64
उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि ॥
उत्त्वा॑ मन्दन्तु॒ स्तोमा॑: कृणु॒ष्व राधो॑ अद्रिवः । अव॑ ब्रह्म॒द्विषो॑ जहि ॥
úttvā mandantu stómāḥ kṛṇúṣva rā́dho adrivaḥ | áva brahma-dvíṣo jahi ||
May the hymns uplift and gladden thee; O wielder of the thunderstone, create for us the plenitude. Strike down those who hate the sacred Word—those forces that oppose the soul’s truth.
उत् । त्वा॒ । म॒न्द॒न्तु॒ । स्तोमाः॑ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ । अव॑ । ब्र॒ह्म॒ऽद्विषः॑ । ज॒हि॒ ॥उत् । त्वा । मन्दन्तु । स्तोमाः । कृणुष्व । राधः । अद्रिवः । अव । ब्रह्मद्विषः । जहि ॥ut | tvā | mandantu | stomāḥ | kṛṇuṣva | rādhaḥ | adri-vaḥ | ava | brahma-dviṣaḥ | jahi