Sukta 8.63
स पूर्व्यो महानां वेनः क्रतुभिरानजे । यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥
स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे । यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥
sá pū́rvyo mahā́nāṃ venáḥ kratúbhir ānaje | yásya dvā́rā mánuṣ pitā́ devéṣu dhíya ānáje ||
He, the ancient one among the great, the seeker, has approached by powers of will. Through his gates, Manu the Father has entered; through him our thoughts enter among the gods.
सः । पू॒र्व्यः । म॒हाना॑म् । वे॒नः । क्रतु॑ऽभिः । आ॒न॒जे॒ । यस्य॑ । द्वारा॑ । मनुः॑ । पि॒ता । दे॒वेषु॑ । धियः॑ । आ॒न॒जे ॥सः । पूर्व्यः । महानाम् । वेनः । क्रतुभिः । आनजे । यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे ॥saḥ | pūrvyaḥ | mahānām | venaḥ | kratu-bhiḥ | ānaje | yasya | dvārā | manuḥ | pitā | deveṣu | dhiyaḥ | ānaje