Sukta 8.61
प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् । उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥
प्र॒भ॒ङ्गी शूरो॑ म॒घवा॑ तु॒वीम॑घ॒: सम्मि॑श्लो वि॒र्या॑य॒ कम् । उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतु॑: ॥
prabháṅgī śū́ro maghávā tuvī́maghaḥ sámmiślo vīryā̀ya kám | ubhā́ te bāhū́ vṛ́ṣaṇā śatakrato ní yā́ vájraṃ mimikṣátuḥ ||
Breaker-through, hero, bounteous one of vast giving—Indra is compacted for the act of power. Both your arms, bull-strong, O Shatakratu, set down and press the thunderbolt into its poise.
प्र॒ऽभ॒ङ्गी । शूरः॑ । म॒घऽवा॑ । तु॒विऽम॑घः । सम्ऽमि॑श्लः । वी॒र्या॑य । कम् । उ॒भा । ते॒ । बा॒हू इति॑ । वृष॑णा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या । वज्र॑म् । मि॒मि॒क्षतुः॑ ॥प्रभङ्गी । शूरः । मघवा । तुविमघः । सम्मिश्लः । वीर्याय । कम् । उभा । ते । बाहू इति । वृषणा । शतक्रतो इति शतक्रतो । नि । या । वज्रम् । मिमिक्षतुः ॥pra-bhaṅgī | śūraḥ | magha-vā | tuvi-maghaḥ | sam-miślaḥ | vīryāya | kam | ubhā | te | bāhū iti | vṛṣaṇā | śatakrato itiśata-krato | ni | yā | vajram | mimikṣatuḥ