Sukta 8.60
पाहि नो अग्न एकया पाह्युत द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥
पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्यु१॒॑त द्वि॒तीय॑या । पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ॥
pā́hi no agne ékayā pā́hy utá dvitī́yayā | pā́hi gī́rbhis tisṛ́bhir ūrjā́m pate pā́hi catasṛ́bhir vaso íti ||
Protect us, O Agni, with the one power; protect also with the second. Protect with three utterances of the Word, O lord of plenitude; protect with the fourfold, O Vasu—power of rich substance.
पा॒हि । नः॒ । अ॒ग्ने॒ । एक॑या । पा॒हि । उ॒त । द्वि॒तीय॑या । पा॒हि । गीः॒ऽभिः । ति॒सृऽभिः॑ । ऊ॒र्जा॒म् । प॒ते॒ । पा॒हि । च॒त॒सृऽभिः॑ । व॒सो॒ इति॑ ॥पाहि । नः । अग्ने । एकया । पाहि । उत । द्वितीयया । पाहि । गीःभिः । तिसृभिः । ऊर्जाम् । पते । पाहि । चतसृभिः । वसो इति ॥pāhi | naḥ | agne | ekayā | pāhi | uta | dvitīyayā | pāhi | gīḥ-bhiḥ | tisṛ-bhiḥ | ūrjām | pate | pāhi | catasṛ-bhiḥ | vaso iti