Sukta 8.60
मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः । अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ॥
मा नो॒ मर्ता॑य रि॒पवे॑ रक्ष॒स्विने॒ माघशं॑साय रीरधः । अस्रे॑धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभि॑: पाहि पा॒युभि॑: ॥
mā́ no mártāya ripáve rakṣasvíne mā́gha-śaṃsāya rīradhaḥ | asrédhad-bhis taráṇi-bhir yaviṣṭhya śivébhíḥ pāhi pāyú-bhiḥ ||
Give us not over to the mortal foe, nor to the guardian of darkness, nor to the speaker of evil. O youngest flame, protect us with thy unfailing forces of passage and with thy auspicious guardianships.
मा । नः॒ । मर्ता॑य । रि॒पवे॑ । र॒क्ष॒स्विने॑ । मा । अ॒घऽशं॑साय । री॒र॒धः॒ । अस्रे॑धत्ऽभिः । त॒रणि॑ऽभिः । य॒वि॒ष्ठ्य॒ । शि॒वेभिः॑ । पा॒हि॒ । पा॒युऽभिः॑ ॥मा । नः । मर्ताय । रिपवे । रक्षस्विने । मा । अघशंसाय । रीरधः । अस्रेधत्भिः । तरणिभिः । यविष्ठ्य । शिवेभिः । पाहि । पायुभिः ॥mā | naḥ | martāya | ripave | rakṣasvine | mā | agha-śaṃsāya | rīradhaḥ | asredhat-bhiḥ | taraṇi-bhiḥ | yaviṣṭhya | śivebhiḥ | pāhi | pāyu-bhiḥ