Sukta 8.60
पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव । त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥
पा॒हि विश्व॑स्माद्र॒क्षसो॒ अरा॑व्ण॒: प्र स्म॒ वाजे॑षु नोऽव । त्वामिद्धि नेदि॑ष्ठं दे॒वता॑तय आ॒पिं नक्षा॑महे वृ॒धे ॥
pā́hi víśvasmād rakṣáso arā́vṇaḥ | prá sma vā́jeṣu no ’va | tvā́m íd dhi nédiṣṭhaṃ deva-tā́taye ā́piṃ nákṣāmahe vṛdhé ||
Protect us from every devouring darkness-force; and in our plenitudes of force help us forward. For thee indeed, O nearest one, we reach as our sure support for the increase of the divine powers within us.
पा॒हि । विश्व॑स्मात् । र॒क्षसः॑ । अरा॑व्णः । प्र । स्म॒ । वाजे॑षु । नः॒ । अ॒व॒ । त्वाम् । इत् । हि । नेदि॑ष्ठम् । दे॒वऽता॑तये । आ॒पिम् । नक्षा॑महे । वृ॒धे ॥पाहि । विश्वस्मात् । रक्षसः । अराव्णः । प्र । स्म । वाजेषु । नः । अव । त्वाम् । इत् । हि । नेदिष्ठम् । देवतातये । आपिम् । नक्षामहे । वृधे ॥pāhi | viśvasmāt | rakṣasaḥ | arāvṇaḥ | pra | sma | vājeṣu | naḥ | ava | tvām | it | hi | nediṣṭham | deva-tātaye | āpim | nakṣāmahe | vṛdhe