Sukta 8.60
यथा चिद्वृद्धमतसमग्ने संजूर्वसि क्षमि । एवा दह मित्रमहो यो अस्मध्रुग्दुर्मन्मा कश्च वेनति ॥
यथा॑ चिद्वृ॒द्धम॑त॒समग्ने॑ सं॒जूर्व॑सि॒ क्षमि॑ । ए॒वा द॑ह मित्रमहो॒ यो अ॑स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन॑ति ॥
yáthā cid vṛddhám atásam ágne sam-jū́rvasi kṣámi | evā́ dáha mitra-maho yó asmá-dhrug dur-mánmā káś ca vénati ||
As thou consumest even the overgrown tangle upon the earth, O Agni, so burn utterly, O friend of the mighty, whoever would harm us—any ill-thinker who seeks to prevail.
यथा॑ । चि॒त् । ऋ॒द्धम् । अ॒त॒सम् । अग्ने॑ । स॒म्ऽजूर्व॑सि । क्षमि॑ । ए॒व । द॒ह॒ । मि॒त्र॒ऽम॒हः॒ । यः । अ॒स्म॒ऽध्रुक् । दुः॒ऽमन्मा॑ । कः । च॒ । वेन॑ति ॥यथा । चित् । ऋद्धम् । अतसम् । अग्ने । सम्जूर्वसि । क्षमि । एव । दह । मित्रमहः । यः । अस्मध्रुक् । दुःमन्मा । कः । च । वेनति ॥yathā | cit | ṛddham | atasam | agne | sam-jūrvasi | kṣami | eva | daha | mitra-mahaḥ | yaḥ | asma-dhruk | duḥ-manmā | kaḥ | ca | venati