Sukta 8.60
शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महाँ असि । देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥
शोचा॑ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व॑ स्तो॒त्रे म॒हाँ अ॑सि । दे॒वानां॒ शर्म॒न्मम॑ सन्तु सू॒रय॑: शत्रू॒षाह॑: स्व॒ग्नय॑: ॥
śócā śóciṣṭha dīdihí viśé máyo rásva stótre mahā́ṃ asi | devā́nāṃ śárman máma santu sūráyaḥ śatrū-sā́haḥ sv-agnáyaḥ ||
Flame forth, O most luminous; shine for the people. Give the delight (mayaḥ) to our hymn; for thou art great. May my heroes abide in the shelter of the gods—conquerors of enemies, possessed of the good Fire within.
शोच॑ । शो॒चि॒ष्ठ॒ । दी॒दि॒हि । वि॒शे । मयः॑ । रास्व॑ । स्तो॒त्रे । म॒हान् । अ॒सि॒ । दे॒वाना॑म् । शर्म॑न् । मम॑ । स॒न्तु॒ । सू॒रयः॑ । श॒त्रु॒ऽसहः॑ । सु॒ऽअ॒ग्नयः॑ ॥शोच । शोचिष्ठ । दीदिहि । विशे । मयः । रास्व । स्तोत्रे । महान् । असि । देवानाम् । शर्मन् । मम । सन्तु । सूरयः । शत्रुसहः । सुअग्नयः ॥śoca | śociṣṭha | dīdihi | viśe | mayaḥ | rāsva | stotre | mahān | asi | devānām | śarman | mama | santu | sūrayaḥ | śatru-sahaḥ | su-agnayaḥ