Sukta 8.60
अद्रोघमा वहोशतो यविष्ठ्य देवाँ अजस्र वीतये । अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः ॥
अद्रो॑घ॒मा व॑होश॒तो य॑विष्ठ्य दे॒वाँ अ॑जस्र वी॒तये॑ । अ॒भि प्रयां॑सि॒ सुधि॒ता व॑सो गहि॒ मन्द॑स्व धी॒तिभि॑र्हि॒तः ॥
ádrógham ā́ vaho uśató yaviṣṭhya devā́ṃ ajasra vītáye | abhí prayā́ṃsi sudhítā vaso gahi mándasva dhītíbhir hitáḥ ||
Bring hither, O youngest, the gods without betrayal, for the desired enjoyment—unceasingly. Come, O Vasu, to the well-ordered offerings; take delight, established by our insights and luminous intentions.
अद्रो॑घम् । आ । व॒ह॒ । उ॒श॒तः । य॒वि॒ष्ठ्य॒ । दे॒वान् । अ॒ज॒स्र॒ । वी॒तये॑ । अ॒भि । प्रयां॑सि । सु॒ऽधि॒ता । आ । व॒सो॒ इति॑ । ग॒हि॒ । मन्द॑स्व । धी॒तिऽभिः॑ । हि॒तः ॥अद्रोघम् । आ । वह । उशतः । यविष्ठ्य । देवान् । अजस्र । वीतये । अभि । प्रयांसि । सुधिता । आ । वसो इति । गहि । मन्दस्व । धीतिभिः । हितः ॥adrogham | ā | vaha | uśataḥ | yaviṣṭhya | devān | ajasra | vītaye | abhi | prayāṃsi | su-dhitā | ā | vaso iti | gahi | mandasva | dhīti-bhiḥ | hitaḥ