Sukta 8.60
अग्ने कविर्वेधा असि होता पावक यक्ष्यः । मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः ॥
अग्ने॑ क॒विर्वे॒धा अ॑सि॒ होता॑ पावक॒ यक्ष्य॑: । म॒न्द्रो यजि॑ष्ठो अध्व॒रेष्वीड्यो॒ विप्रे॑भिः शुक्र॒ मन्म॑भिः ॥
ágné kavír vedhā́ ási hótā pā́vaka yákṣyaḥ | mandró yájiṣṭho adhvaréṣv ī́ḍyo víprebhiḥ śúkra mánmabhiḥ ||
O Agni, thou art the seer and the knower, the invoking priest, the purifier, ready to sacrifice. Joyful, most perfect in the work, adorable in the sacrifices, thou shinest with the bright thoughts of the inspired.
अग्ने॑ । क॒विः । वे॒धाः । अ॒सि॒ । होता॑ । पा॒व॒क॒ । यक्ष्यः॑ । म॒न्द्रः । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईड्यः॑ । विप्रे॑भिः । शु॒क्र॒ । मन्म॑ऽभिः ॥अग्ने । कविः । वेधाः । असि । होता । पावक । यक्ष्यः । मन्द्रः । यजिष्ठः । अध्वरेषु । ईड्यः । विप्रेभिः । शुक्र । मन्मभिः ॥agne | kaviḥ | vedhāḥ | asi | hotā | pāvaka | yakṣyaḥ | mandraḥ | yajiṣṭhaḥ | adhvareṣu | īḍyaḥ | viprebhiḥ | śukra | manma-bhiḥ