Sukta 8.60
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे । ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥
अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिर॒: स्रुच॒श्चर॑न्त्यध्व॒रे । ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥
ácchā hí tvā sahasaḥ sū́no aṅgiraḥ srúcaś cáranty adhvaré | ū́rjo nápātaṃ ghṛtákeśam īmahe ’gníṃ yajñéṣu pū́rvyam ||
For indeed, O son of force, O Aṅgiras, the ladles move toward thee in the sacrifice. We seek Agni, the offspring of plenitude, with hair of clarified light, the ancient one in the sacrifices.
अच्छ॑ । हि । त्वा॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ङ्गि॒रः॒ । स्रुचः॑ । चर॑न्ति । अ॒ध्व॒रे । ऊ॒र्जः । नपा॑तम् । घृ॒तऽके॑शम् । ई॒म॒हे॒ । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥अच्छ । हि । त्वा । सहसः । सूनो इति । अङ्गिरः । स्रुचः । चरन्ति । अध्वरे । ऊर्जः । नपातम् । घृतकेशम् । ईमहे । अग्निम् । यज्ञेषु । पूर्व्यम् ॥accha | hi | tvā | sahasaḥ | sūno iti | aṅgiraḥ | srucaḥ | caranti | adhvare | ūrjaḥ | napātam | ghṛta-keśam | īmahe | agnim | yajñeṣu | pūrvyam