Sukta 8.60
अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे । आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥
अग्न॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वृणीमहे । आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे॑ ॥
ágne ā́ yāhy agníbhir hótāraṃ tvā vṛṇīmahe | ā́ tvām anaktu práyatā havíṣmatī yájiṣṭhaṃ bárhir āsáde ||
O Agni, come with thy fires; we choose thee as the priest of offering. May the well-prepared offering anoint thee; come, most capable of sacrifice, to take thy seat upon the sacred grass.
अग्ने॑ । आ । या॒हि॒ । अ॒ग्निऽभिः॑ । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ । आ । त्वाम् । अ॒न॒क्तु॒ । प्रऽय॑ता । ह॒विष्म॑ती । यजि॑ष्ठम् । ब॒र्हिः । आ॒ऽसदे॑ ॥अग्ने । आ । याहि । अग्निभिः । होतारम् । त्वा । वृणीमहे । आ । त्वाम् । अनक्तु । प्रयता । हविष्मती । यजिष्ठम् । बर्हिः । आसदे ॥agne | ā | yāhi | agni-bhiḥ | hotāram | tvā | vṛṇīmahe | ā | tvām | anaktu | pra-yatā | haviṣmatī | yajiṣṭham | barhiḥ | āsade