Sukta 8.60
अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः । अप्रोषिवान्गृहपतिर्महाँ असि दिवस्पायुर्दुरोणयुः ॥
अग्ने॒ जरि॑तर्वि॒श्पति॑स्तेपा॒नो दे॑व र॒क्षस॑: । अप्रो॑षिवान्गृ॒हप॑तिर्म॒हाँ अ॑सि दि॒वस्पा॒युर्दु॑रोण॒युः ॥
agné járitar viśpátiṣ tepā́nó deva rákṣasaḥ | apróṣivān gṛhá-patir mahā́m asi divás pāyúr duroṇa-yúḥ ||
O Agni, O singer’s companion, lord of the dwelling, blazing, O god, against the powers of darkness. Unfailing, master of the house, you are great—the protector of the luminous heaven and the one who longs for the true home.
अग्ने॑ । जरि॑तः । वि॒श्पतिः॑ । ते॒पा॒नः । दे॒व॒ । र॒क्षसः॑ । अप्रो॑षिऽवान् । गृ॒हऽप॑तिः । म॒हान् । अ॒सि॒ । दि॒वः । पा॒युः । दि॒रो॒ण॒ऽयुः ॥अग्ने । जरितः । विश्पतिः । तेपानः । देव । रक्षसः । अप्रोषिवान् । गृहपतिः । महान् । असि । दिवः । पायुः । दिरोणयुः ॥agne | jaritaḥ | viśpatiḥ | tepānaḥ | deva | rakṣasaḥ | aproṣi-vān | gṛha-patiḥ | mahān | asi | divaḥ | pāyuḥ | diroṇa-yuḥ