Sukta 8.60
अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः । अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम् ॥
अ॒ग्निम॑ग्निं वो॒ अध्रि॑गुं हु॒वेम॑ वृ॒क्तब॑र्हिषः । अ॒ग्निं हि॒तप्र॑यसः शश्व॒तीष्वा होता॑रं चर्षणी॒नाम् ॥
agním-agníṃ vo ádhri-guṃ huvéma vṛktá-barhiṣaḥ | agníṃ hitá-prayasaḥ śaśvatī́ṣv ā́ hotā́raṃ carṣaṇīnā́m ||
Agni upon Agni we call for you—steadfast in his force—O you with the strewn sacred seat. Agni we summon, we who set our offerings in right order, the eternal Hotṛ of the peoples.
अ॒ग्निम्ऽअ॑ग्निम् । वः॒ । अध्रि॑ऽगुम् । हु॒वेम॑ । वृ॒क्तऽब॑र्हिषः । अ॒ग्निम् । हि॒तऽप्र॑यसः । श॒श्व॒तीषु॑ । आ । होता॑रम् । च॒र्ष॒णी॒नाम् ॥अग्निम्अग्निम् । वः । अध्रिगुम् । हुवेम । वृक्तबर्हिषः । अग्निम् । हितप्रयसः । शश्वतीषु । आ । होतारम् । चर्षणीनाम् ॥agnim-agnim | vaḥ | adhri-gum | huvema | vṛkta-barhiṣaḥ | agnim | hita-prayasaḥ | śaśvatīṣu | ā | hotāram | carṣaṇīnām