Sukta 8.60
शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते । अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि ॥
शेषे॒ वने॑षु मा॒त्रोः सं त्वा॒ मर्ता॑स इन्धते । अत॑न्द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ॥
śéṣe váneṣu mātróḥ sáṃ tvā mártāsa indhate | átandro havyā́ vahasi haviṣ-kṛ́ta ā́d íd devéṣu rājasi ||
Even in the resting woods of thy two mothers, mortals kindle thee together. Tireless, thou carriest the oblations, O maker of the offering; and then indeed thou reignest among the gods.
शेषे॑ । वने॑षु । मा॒त्रोः । सम् । त्वा॒ । मर्ता॑सः । इ॒न्ध॒ते॒ । अत॑न्द्रः । ह॒व्या । व॒ह॒सि॒ । ह॒विः॒ऽकृतः॑ । आत् । इत् । दे॒वेषु॑ । रा॒ज॒सि॒ ॥शेषे । वनेषु । मात्रोः । सम् । त्वा । मर्तासः । इन्धते । अतन्द्रः । हव्या । वहसि । हविःकृतः । आत् । इत् । देवेषु । राजसि ॥śeṣe | vaneṣu | mātroḥ | sam | tvā | martāsaḥ | indhate | atandraḥ | havyā | vahasi | haviḥ-kṛtaḥ | āt | it | deveṣu | rājasi